|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.157. अध्यायः 157
Mahabharata - Udyoga Parva - Chapter Topics
युधिष्ठिरेण श्रीकृष्णानुमत्या द्रुपदादीनां सप्तानां पृतगक्षौहिण्याधिपत्येऽभिषेचनपूर्वकं धृष्टद्युम्नस्य सर्वसैन्याधिपत्येऽभिषेचनम् ॥ 1 ॥ बलरामस्य अक्रूरादिभिः सह पाण्डवदिदृक्षया कुरुक्षेत्रागमनम् ॥ 2 ॥ युधिष्ठिरादिपूजितस्य तस्य बन्धुनिधनावलोकनासहिष्णुतया तीर्थनिषेवणार्थं गमनम् ॥ 3 ॥

Mahabharata - Udyoga Parva - Chapter Text
5-157-0(37167)
जनमेजय उवाच। 5-157-0x(3846)
आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम्।
पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् ॥ 5-157-1(37168)
बृहस्पतिसं बुद्ध्या क्षमया पृथिवीसमम् ।
समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् ॥ 5-157-2(37169)
प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् ।
महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ॥ 5-157-3(37170)
रणयज्ञे प्रवितते सुभीमे लोमहर्षणे।
दीक्षितं चिररात्राय श्रुत्वा तत्र युधिष्ठिरः ॥ 5-157-4(37171)
किमब्रवीन्महाबाहुः सर्वशस्त्रभृतां वरः ।
भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यभाषत ॥ 5-157-5(37172)
वैशम्पायन उवाच। 5-157-6x(3847)
आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः।
सर्वान्भ्रातॄन्समानीय वासुदेवं च शाश्वतम् ॥ 5-157-6(37173)
उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः।
पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः ॥ 5-157-7(37174)
पितामहेन वो युद्धं पूर्वमेव भविष्यति।
तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत ॥ 5-157-8(37175)
कृष्ण उवाच। 5-157-9x(3848)
यथार्हति भवान्वक्तुमस्मिन्काले ह्युपस्थिते।
तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ॥ 5-157-9(37176)
रोचते मे महाबाहो क्रियतां यदनन्तरम्।
नायकास्तव सेनायां क्रियन्तामिह सप्त वै ॥ 5-157-10(37177)
वैशम्पायन उवाच। 5-157-11x(3849)
ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम् ।
धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिव।
शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् ॥ 5-157-11(37178)
एतान्सप्त महाभागान्वीरान्युद्धाभिकाङ्क्षिणः ।
सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः ॥ 5-157-12(37179)
सर्वसेनापतिं चात्र धृष्टद्युम्नं चकार ह ।
द्रोणान्तहेतोरुत्पन्नो य इद्धाञ्जातवेदसः ॥ 5-157-13(37180)
सर्वेषामेव तेषां तु समस्तानां महात्मनाम् ।
सेनापतिपतिं चक्रे गडाकेशं धनञ्जयम् ॥ 5-157-14(37181)
अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम्।
सङ्कर्णणानुजः श्रीमान्महाबुद्धिर्जनार्दनः ॥ 5-157-15(37182)
तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् ।
प्राविशद्भवनं राज्ञः पाण्डवानां हलायुधः ॥ 5-157-16(37183)
सहाक्रूरप्रभृतिभिर्ददसाम्बोद्धवादिभिः ।
रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः ॥ 5-157-17(37184)
वृष्णिमुख्यैरधिगतैर्व्याघ्रैरिव बलोत्कटैः ।
अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः ॥ 5-157-18(37185)
नीलकौशेयवसनः कैलासशिखरोपमः ।
सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः ॥ 5-157-19(37186)
तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः ।
उदतिष्ठत्ततः पार्थो भीमकर्मा वृकोदरः ॥ 5-157-20(37187)
गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन।
पूजयाञ्चक्रिरे ते वै समायान्तं हलायुधम् ॥ 5-157-21(37188)
ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना ।
वासुदेवपुरोगास्तं सर्व एवाभ्यवादयन् ॥ 5-157-22(37189)
विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः ।
युधिष्ठिरेण सहित उपाविशदरिन्दमः ॥ 5-157-23(37190)
ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः ।
वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ॥ 5-157-24(37191)
भवितायं महारौद्रो दारुणः पुरुषक्षयः ।
दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ॥ 5-157-25(37192)
तस्माद्युद्धात्समुत्तीर्णानपि वः समुहृञ्जानान्।
अरोगानक्षतैर्देहैर्द्रष्टास्मीति मतिर्मम ॥ 5-157-26(37193)
समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् ।
विमर्दश्च महान्भावी मांसशोणितकदर्दमः ॥ 5-157-27(37194)
उक्तो मया वासुदेवः पुनः पुनरुपह्वरे।
संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ॥ 5-157-28(37195)
पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः।
तस्यापि क्रियतां साह्यं स पर्येति पुनःपुनः ॥ 5-157-29(37196)
तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः।
निर्विष्टः सर्वभावेन धनञ्जयमवेक्ष्य ह ॥ 5-157-30(37197)
ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः।
तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ॥ 5-157-31(37198)
न चाहमृत्सहे कृष्णमृते लोकमुदीक्षितुम् ।
ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् ॥ 5-157-32(37199)
उभौ शिष्यौ हि मे वीरौ गदायद्धविशारदौ ।
तुल्यस्नेहोऽस्म्यतो भीते तथा दुर्योधने नृपे ॥ 5-157-33(37200)
तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् ।
न हि शक्ष्यामि कौरव्यान्नश्यमानानवेक्षितुम् ॥ 5-157-34(37201)
वैशम्पायन उवाच। 5-157-35x(3850)
एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः।
तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् ॥ ॥ 5-157-35(37202)
इति श्रीमन्महाभारते उद्योगपर्वमि सैन्यनिर्याणपर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-157-13 इद्धात्प्रदीप्तात् ॥ 5-157-16 महात्ययं अत्यन्तं क्षयकरम् ॥ 5-157-24 रौहिणेयो बलरामः ॥ 5-157-28 उपह्वरे एकान्ते ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|